A Non-Profit Non-Commercial Public Service Initiative by Alka Vibhas   
वन्दे मातरम्‌

वन्दे मातरम्‌ ।

सुजलाम्‌ सुफलाम्‌ मलयजशीतलाम्‌
सस्यश्यामलाम्‌ मातरम्‌ ।

शुभ्रज्योत्‍स्‍नापुलकितयामिनीम्‌
फुल्लकुसुमितद्रुमदलशोभिनीम्‌
सुहासिनीम्‌ सुमधुर भाषिणीम्‌
सुखदाम्‌ वरदाम्‌ मातरम्‌ ॥
वन्दे मातरम्‌ ।

कोटि-कोटि-कण्ठ-कल-कल-निनाद-कराले,
कोटि-कोटि-भुजैधृत-खरकरवाले,
अबला केन मा एत बले ।
बहुबलधारिणीम्‌ नमामि तारिणीम्‌
रिपुदलवारिणीम्‌ मातरम्‌ ॥
वन्दे मातरम्‌ ।

तुमि विद्या, तुमि धर्म
तुमि हृदि, तुमि मर्म
त्वम्‌ हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति
हृदये तुमि मा भक्ति
तोमारइ प्रतिमा गडि मन्दिरे-मन्दिरे मातरम्‌ ॥
वन्दे मातरम्‌ ।

त्वम्‌ हि दुर्गा दशप्रहरणधारिणी
कमला कमलदलविहारिणी
वाणी विद्यादायिनी, नामामि त्वाम्‌
कमलाम्‌ अमलाम्‌ अतुलाम्‌ सुजलाम्‌ सुफलाम्‌ मातरम्‌ ॥
वन्दे मातरम्‌ ।

श्यामलाम्‌ सरलाम्‌ सुस्मिताम्‌ भूषिताम्‌
धरणीम्‌ भरणीम्‌ मातरम्‌ ॥
वन्दे मातरम्‌ ।