A Non-Profit Non-Commercial Public Service Initiative by Alka Vibhas   
जय जय हे भगवति सुरभारति

या देवी सर्वभूतेषु कलारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥

जय जय हे भगवति सुरभारति
तव चरणौ प्रणमामः
नादब्रह्ममयि जय वागीश्वरि
शरणं ते गच्छामः ॥

त्वमसि शरण्या त्रिभुवनधन्या
सुर-मुनि-वन्‍दित-चरणा
नवरसमधुरा कवितामुखरा
स्मित-रुचि-रुचिराभरणा ॥

आसीना भव मानसहंसे
कुन्‍द-तुहिन-शशि-धवले
हर जडतां कुरु बोधिविकासं
सित-पङ्कज-तनु-विमले ॥

ललितकलामयि ज्ञानविभामयि
वीणा-पुस्तक-धारिणी
मतिरास्तां नो तव पदकमले
अयि कुण्ठाविषहारिणि